|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.183. अध्यायः 183
Mahabharata - Adi Parva - Chapter Topics
पाण्डवानां द्रुपदनगरप्रथानम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-183-0x(1050)(8248)
एतच्छ्रुत्वा ततः सर्वे पाण्डवा भरतर्षभ।
मनसा द्रौपदीं जग्मुरनङ्गशरपीडिताः॥' 1-183-1(8249)
ततस्तां रजनीं राजञ्छल्यविद्धा इवाभवन्।
सर्वे चास्वस्थमनसो बभूवुस्ते महाबलाः॥ 1-183-2(8250)
ततः कुन्ती सुतान्दृष्ट्वा सर्वांस्तद्गतचेतसः।
युधिष्ठिरमुवाचेदं वचनं सत्यवादिनी॥ 1-183-3(8251)
चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने।
रममाणाः पुरे रम्ये लब्धभैक्षा महात्मनः॥ 1-183-4(8252)
यानीह रमणीयानि वनान्युपवनानि च।
सर्वाणि तानि दृष्टानि पुनःपुनररिन्दम॥ 1-183-5(8253)
पुनर्दृष्टानि तानीह प्रीणयन्ति न नस्तथा।
भैक्षं च न तथा वीर लभ्यते कुरुनन्दन॥ 1-183-6(8254)
ते वयं साधु पञ्चालान्गच्छाम यदि मन्यसे।
अपूर्वदर्शनं वीर रमणीयं भविष्यति॥ 1-183-7(8255)
सुभिक्षाश्चैव पञ्चालाः श्रूयन्ते शत्रुकर्शन।
यज्ञसेनश्च राजाऽसौ ब्रह्मण्य इति सुश्रुम॥ 1-183-8(8256)
एकत्र चिरवासश्च क्षमो न च मतो मम।
ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे॥ 1-183-9(8257)
युधिष्ठिर उवाच। 1-183-10x(1051)
भवत्या यन्मतं कार्यं तदस्माकं परं हितम्।
अनुजांस्तु न जानामि गच्छेयुर्नेति वा पुनः॥ 1-183-10(8258)
वैशम्पायन उवाच। 1-183-11x(1052)
ततः कुन्ती भीमसेनमर्जुनं यमजौ तथा।
उवाच गमनं ते च तथेत्येवाब्रुवंस्तदा॥ 1-183-11(8259)
तत आमन्त्र्य तं विप्रं कुन्ती राजसुतैः सह।
प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः॥ ॥ 1-183-12(8260)
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि त्र्यशीत्यधिकशततमोऽध्यायः॥ 183 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|